Saturday, May 9, 2026
मनोबुद्धयहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे न च व्योम भूमिर्न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥ न च प्राण सञ्जो न वैपञ्चवायुः न वा सप्तधातुर्-न वा पञ्चकोशाः । नवाक्याणि पादौ न चोपस्थ पायू चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ न मे द्वेषरागौ न मे लोभमोहो मदो नैव मे नैव मात्सर्यभावः । न धर्मो न चार्थो न कामो न मोक्षः चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थ न वेदा न यज्ञः । अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूपः शिवोऽहं शिवोऽहम् ॥ न मे मृत्यु शंका न मे जातिभेद:पिता नैव मे नैव माता न जन्म: न बन्धुर्न मित्रं गुरुर्नैव शिष्य: चिदानन्द रूप: शिवोऽहम् शिवोऽहम् ॥ www.navjivanfoundation.org
Subscribe to:
Post Comments (Atom)

No comments:
Post a Comment